(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.39. अध्यायः 039
Mahabharata - Sabha Parva - Chapter Topics
अभिषेचनदिने ब्राह्मणादीनामन्तर्वेदिप्रवेशः॥ 1॥ भूभारक्षपणे नारदचिन्तनम्॥ 2॥ पूर्वं सङ्क्षिप्योक्तायाः कृष्णागमनकथायाः किञ्चिद्विस्तरेण कथनम्॥ 3॥ सहदेवेन श्रीकृष्णस्याग्रपूजाकरणम्॥ 4॥ शिशुपालेन श्रीकृष्णस्याग्रपूजाऽसहनम्॥ 5॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच॥

ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह।
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः॥ 2-39-1(12941)
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः।
समासीनाः शुशुभिरे सहराजर्षिभिस्तदा॥ 2-39-2(12942)
समेता ब्रह्मभवने देवा देवर्षयस्तथा।
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः॥ 2-39-3(12943)
एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा।
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम्॥ 2-39-4(12944)
कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते।
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः॥ 2-39-5(12945)
तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्।
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्॥ 2-39-6(12946)
केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः।
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः॥ 2-39-7(12947)
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः।
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता॥ 2-39-8(12948)
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती।
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने॥ 2-39-9(12949)
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्।
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः॥ 2-39-10(12950)
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप।
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम्॥ 2-39-11(12951)
सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ।
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत्॥ 2-39-12(12952)
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन।
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्॥ 2-39-13(12953)
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः।
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः॥ 2-39-14(12954)
सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्।
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ॥ 2-39-15(12955)
इति नारायणः शम्भुर्भगवान्भूतभावनः।
आदिश्य विबुधान्सर्वानजायत यदुक्षये॥ 2-39-16(12956)
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः।
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्॥ 2-39-17(12957)
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते।
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः॥ 2-39-18(12958)
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्।
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्॥ 2-39-19(12959)
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्।
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम्॥ 2-39-20(12960)
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः।
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः॥ 2-39-21(12961)
`ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः।
बहवो भावितात्मानः पृथक्पृथगरिन्दमाः॥ 2-39-22(12962)
आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः।
समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः॥ 2-39-23(12963)
सदाराः सजनामात्या वहन्तो रत्नसञ्चयान्।
विकृष्टत्वाच्च देशस्य गुरुभारतया च ते॥ 2-39-24(12964)
ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः।
बलशेषं समुदितं परिगृह्य समन्ततः॥ 2-39-25(12965)
अजश्चक्रायुधः शौरिरमित्रगणमर्दनः।
बलाधिकारे निक्षिप्य संमान्यानकदुन्दुभिम्॥ 2-39-26(12966)
सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे।
उच्चावचमुपादाय धर्मराजाय माधवः॥ 2-39-27(12967)
धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ।
तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान्॥ 2-39-28(12968)
भूमिपालगणान्सर्वान्सप्रभानिव तोयदान्।
मेघकायान्निवसतो यूथपानिव यूथपः॥ 2-39-29(12969)
बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः।
ततो जनौघसम्बाधं राजसागरमव्ययम्॥ 2-39-30(12970)
नादयन्रथघोषेण ह्युपायान्मधुसूदनः।
असूर्यमिव सूर्येण निवातमिव वायुना॥ 2-39-31(12971)
कृष्णेन समुपेतेन जहर्षे भारतं पुरम्।
ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित्॥ 2-39-32(12972)
सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत्।
भगवन्तं तु भूतानां भास्वन्तमिव तेजसा॥ 2-39-33(12973)
विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम्।
तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम्॥ 2-39-34(12974)
वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम्।
जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम्॥ 2-39-35(12975)
अनन्तमन्तं शत्रूणाममित्रगणमर्दनम्।
प्रभवं सर्वभूतानामापत्स्वभयमच्युतम्॥ 2-39-36(12976)
भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम्।
स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम्॥ 2-39-37(12977)
यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः।
ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः॥ 2-39-38(12978)
आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान्।
महदादित्यसङ्काशमासनं च जगत्पतेः।
ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः'॥ 2-39-39(12979)
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्।
क्रियतामर्हणं राज्ञां यथार्हमिति भारत॥ 2-39-40(12980)
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर।
स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा॥ 2-39-41(12981)
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान्।
त इमे कालपूगस्य महतोऽस्मानुपागताः॥ 2-39-42(12982)
एषामेकैकशो राजन्नर्घ आनीयतामिति।
अथ तैषां वरिष्ठाय समर्थायोपनीयताम्॥ 2-39-43(12983)
युधिष्ठिर उवाच॥ 2-39-44x(1459)
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन।
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह॥ 2-39-44(12984)
वैशम्पायन उवाच॥ 2-39-45x(1460)
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान्।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि॥ 2-39-45(12985)
भीष्ण उवाच॥ 2-39-46x(1461)
एष ह्येषां समस्तानां तेजोबलपराक्रमैः।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः॥ 2-39-46(12986)
असूर्यमिव सूर्येण निर्वातमिव वायुना।
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः॥ 2-39-47(12987)
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्।
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्॥ 2-39-48(12988)
`गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा।
एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम्॥ 2-39-49(12989)
तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम्।
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्'॥ 2-39-50(12990)
प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा।
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे॥ 2-39-51(12991)
उपालभ्य स भीष्मं च धर्मराजं च संसदि।
अवाक्षिपद्वासुदेवं चेदिराजो महाबलः॥ 2-39-52(12992)
`तेषामाकारभावज्ञः सहदेवो न चक्षमे।
मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे॥ 2-39-53(12993)
पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि।
जन्मप्रभृति वृष्णीना सुनीथः शत्रुरब्रवीत्॥ 2-39-54(12994)
प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः।
प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः॥ 2-39-55(12995)
सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते।
इत्युक्त्वा स विहस्याशु पाण्डुं पुनरब्रवीत्॥ 2-39-56(12996)
अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव।
तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि॥ 2-39-57(12997)
एते चैवोभये तात कार्यस्य तु विनाशके।
अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः'॥ ॥ 2-39-58(12998)

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनचत्वारिंशोऽध्यायः॥39॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-39-41 संयुजं सम्बन्धिनं श्वशुरादिम्। प्रियं मित्रम्॥ 2-39-52 अवाक्षिपद्दूषितवान्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.